エピソード

  • आवश्यकतापूरणम् एव श्रेष्ठः धर्मः
    2026/03/05

    कदाचित् कश्चन कुग्रामवासी कस्यचन धनिकस्य गृहं गत्वा जलं याचति । किन्तु धनिकः तस्य मलिनवस्त्रं दृष्ट्वा क्रुद्धः भूत्वा किमपि न यच्छति । अग्रे कदाचित् सः‌ धनिकः यदा मृगयार्थं गतः तदा मार्गभ्रष्टः सन् बहुधा अटित्वा अन्ते कुग्रामवासिनः गृहं प्राप्नोत् । किन्तु सः कुग्रामवासी धनिकाय जलं भोजनं शयनाय स्वस्य मञ्चं च दत्तवान् । अग्रिमदिने यदा धनिकः सुवर्णनाणकानि कुग्रामीणाय कृतज्ञतापूर्वकं दातुम् उद्यतः तदा कुग्रामवासी तत् निराकुर्वन् अवदत् 'जीवने धनम् आगच्छेत् गच्छेत् च । जीवने धनं मुख्यं न । यस्मिन् काले यस्य या आवश्यकता भवेत् सा पूरणीया । तादृशव्यवहारवान् एव उत्तमत्वेन ख्यातः भविष्यति' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a poor villager went to a wealthy man’s house asking for water. Seeing his dirty clothes, the rich man grew angry and refused. Later, while hunting, the same rich man lost his way and, after wandering long, reached the poor villager’s hut. The villager welcomed him with water, food, and even his own bed to rest. The next day, the rich man tried to reward him with gold coins. But the villager declined, saying: “Wealth comes and goes; it is not the essence of life. What matters is fulfilling another’s need at the right time. Such conduct alone brings true honor”.

    続きを読む 一部表示
    5 分
  • ज्ञानाय परिश्रमः एव मार्गः
    2026/03/04

    कश्चन राजा तस्य पुत्रं गुरुकुलं प्रेषयितुम् इच्छन् तत्रत्यम् आचार्यम् अपृच्छत् यत् तस्य पुत्रस्य वासशिक्षणादिनिमित्तं कापि विशेषव्यव्यस्था परिकल्पयितुं शक्यते वा इति । तदा आचार्यः अवदत् 'राजकुलीयानां सञ्चाराय, वासाय, आहारस्य वा विशेषव्यवस्था भवेत् राजभवने किन्तु ज्ञानमार्गेण ये गन्तुम् इच्छेयुः तेषां निमित्तं पार्थक्येन न भवति विशेषमार्गः । अत्र राजकुमारेण सर्वैः सह वासः करणीयः, सर्वैः यत् सेव्येत तदेव सेवनीयं, सर्वैः यथा परिश्रमेण अध्ययनं क्रियेत तथैव करणीयम् च‌’ इति । राजा प्रतिवचनं किमपि अनुक्त्वा अनन्तरदिने एव पुत्रम् आनीय गुरुकुलं प्रवेशितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A king wished to send his son to a gurukula and asked the teacher if any special arrangements could be made for the prince’s stay and education. The teacher replied: “Special provisions for travel, lodging, or food may exist in the royal palace, but on the path of knowledge there is no separate way. Here the prince must live with all, eat what all eat, and study with the same effort as everyone else”. The king said nothing in response, but the very next day he brought his son and admitted him into the gurukula.

    続きを読む 一部表示
    3 分
  • सार्थकताप्राप्तिमार्गः
    2026/03/03

    कश्चन ख्यातः विद्वान् कञ्चित् ज्योतिषिकं द्रष्टुं गतः द्वित्रैः अनुयायिभिः सह । ख्यातनामा सः ज्योतिषिकः मुखदर्शनमात्रेण एव पुरतः‌ स्थितस्य जनस्य गुणस्वभावादिकं वक्तुं समर्थः आसीत् । सः विदुषः मुखं किञ्चित् कालं दृष्ट्वा तस्मिन् विद्यमानान् बहून् दुर्गुणान् उल्लिखितवान् । तथापि सः महाजनः दक्षिणारूपेण प्रभूतं धनं दत्त्वा ततः प्रतिगतवान् । प्रतिगमनसमये कश्चन अनुयायी अपृच्छत् 'यद्यपि सः ज्योतिषिकः अप्रियान् अंशान् बहुधा श्रावितवान् तथापि भवता तस्मै प्रभूतं धनं किमर्थं दत्तम्?’ इति । तदा सः महाजनः अवदत् ' सः यद्यत् अवदत् ते दुर्गुणाः मयि सन्ति । अतः तदीयं सामर्थ्यं पुरस्कुर्वन् अहं तस्मै प्रभूतं‌ धनं‌ दत्तवान् । किन्तु तेन अनुक्तः कश्चन विशेषगुणः अस्ति मयि । सा अस्ति आत्मनिग्रहशक्तिः । ताम् अवलम्ब्य अहं‌ तान् दुर्गुणान् निगृहीतवान् अस्मि' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A renowned scholar once visited an astrologer, accompanied by a few followers. The astrologer, known for describing a person’s nature just by looking at their face, observed the scholar briefly and listed many faults in him. Yet, the scholar gave the astrologer a large sum of money and departed. On the way back, one follower asked, “Though he spoke so many unpleasant things, why did you reward him so generously?” The scholar replied: “What he said about my faults is true. I honored his ability by giving him wealth. But there is one special quality in me that he did not mention—self-control. By relying on it, I have subdued those faults”.

    続きを読む 一部表示
    3 分
  • परिशुद्धतायाः फलम्
    2026/03/02

    कस्मिंश्चित् संशोधनकेन्द्रे अन्तिमचक्रस्य संदर्शने सि.वि.रामन्वर्यः षण्णाम् अभ्यर्थिनां सन्दर्शनं कृत्वा तेषु त्रीन् चितवान् । तेभ्यः षड्भ्यः अपि यातायातव्ययं दातुं तत्सम्बद्धम् अधिकारिणम् असूचयत् सः । तेषु एकः युवकः यः सन्दर्शने न चितः सः रामन्-वर्यम् उपसर्प्य 'यः यातायतव्ययः प्रदत्तः, तत्र दोषेण सप्त रूप्यकाणि अधिकानि दत्तानि' इति अवदत् । रामन्-वर्यः सप्त रूप्यकाणि स्वीकृत्य अग्रिमरदिने मेलितुम् अवदत् । अनन्तरदिने यदा सः युवकः अगच्छत् तदा रामन्-वर्यः तस्य निमित्तम् एकं पदं सृष्टवान् । यद्यपि सः‌ भौतशास्त्रस्य परीक्षायाम् अधिकाङ्कान् न प्राप्तवान् तथापि परिशुद्धतापरीक्षायां सफलः अभवत् इति कारणतः । सः एव भाविनि काले विश्वस्तरे ख्यातः वैज्ञानिकः समभवत् । तस्य नाम 'सुब्रह्मण्यं चन्द्रशेखरः' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    At a research centre’s final round of interviews, Sir C. V. Raman selected three out of six candidates. He informed the authorities to provide travel allowance to all six. One young man, who was not selected, approached Raman and said, “By mistake, seven rupees extra were given in the allowance.” Raman accepted the money and asked him to come the next day. When the youth came, Raman created a position for him, saying that although he had not scored highest in physics, he had passed the test of integrity. That young man later became a world-renowned scientist—Subrahmanyan Chandrasekhar.

    続きを読む 一部表示
    4 分
  • भगवदुपासनायाः उद्देशः
    2026/03/01

    कस्यचन आश्रमस्य अर्थस्थितिः नास्ति इत्यतः तत्रत्यः आचार्यः आश्रमस्य निर्वहणार्थं सर्वदा कष्टम् अनुभवति स्म । अतः कश्चन शिष्यः आचार्यम् उपसर्प्य 'भवान् आश्रमस्य अर्थक्लेशस्य निवारणाय किमर्थं भगवन्तं न प्रार्थयते?’ इति अवदत् । तदा आचार्यः अवदत् 'प्रतिफलम् अपेक्ष्य भगवदुपासना न करणीया वत्स ! असीमानन्दानुभूत्यै वयं निसर्गं पश्यामः, न तु प्रतिफलापेक्षया । एवमेव भगवदुपासना अपि असीमानन्दस्य अनुभूत्यै एव करणीया, न तु प्रतिफलं किमपि एष्टव्यम् । व्यक्तिगतप्रयोजनाय क्रियमाणा उपासना वाणिज्यमिव स्यात् । तादृशी उपासना न हि प्रशस्ता' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In an ashram where financial resources were lacking, the teacher often struggled to maintain it. One disciple asked, “Master, why don’t you pray to God to remove these financial troubles?”. The teacher replied: “Worship of God should never be done with expectation of reward, my child. Just as we look at nature for boundless joy, not for gain, so too worship is meant for experiencing infinite bliss, not for seeking benefits. Worship done for personal profit becomes like trade, and such worship is not noble”.

    続きを読む 一部表示
    3 分
  • भगवतः साक्षात्कारः
    2026/02/28

    अस्यां कथायां कश्चन महात्मा बहून् ग्रन्थान् अधीतवन्तं कञ्चन पण्डितं भगवतः साक्षात्कारस्य विषये वदति । भगवान् प्रत्यक्षतः स्वप्ने वा प्रकटीभवेत् यत् तदेव भगवतः साक्षात्कारः इति मन्यमानं पण्डितं महात्मा वदति 'भगवान् सर्वेषु जीविषु अस्ति । अतः दीनदुर्गतानां सेवां कुर्वन् भवान् भगवत्स्वरूपं पश्यतु । परोपकारः भवतः स्वभावः भवतु । नदीतरुगुल्मादिषु अपि भगवत्स्वरूपं द्रष्टव्यम् । एतादृशात् आचरणात् एव सर्वत्र भगवन्तं द्रष्टुम् अर्हति भवान् । एषः एव भगवतः साक्षात्कारः नाम' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In this story, a sage speaks to a scholar who believed that seeing God directly or in dreams was the true realization of God. The sage explained: “God is present in all beings. By serving the poor and distressed, you see the divine form. Let compassion and selfless service be your nature. God’s presence must also be seen in rivers, trees, and plants. Through such conduct, one truly perceives God everywhere. This alone is called realization of God”.

    続きを読む 一部表示
    3 分
  • आकाशस्य आधारः
    2026/02/27

    'आकाशस्य आधारः एव नास्ति । निराधारः आकाशः ममोपरि पतेत् चेत् मम का गतिः ?’ इति कश्चन बालकः स्वस्य चिन्तनं कस्मैचित् संन्यासिने अवदत् । मन्दहासं प्रकटयन् संन्यसी बुभुक्षाग्रस्तं बालकं 'भिक्षायाचनं कृत्वा आहारं प्राप्य बुभुक्षां निवारय' इति असूचयत् । भिक्षायाचनाय गतः बालकेन किमपि न प्राप्तम् । नितरां खिन्नेन तेन ग्रामात् बहिः कश्चन उटजः प्राप्तः । तत्र काचित् माता तस्मै प्रीत्या भोजनं दत्तवती । प्रवृत्तं सर्वं यदा बालकः संन्यासिनम् अवदत् तदा संन्यासी प्रत्यवदत् 'तया मात्रा यादृशं प्रेम दर्शितं तादृशं प्रेम, वात्सल्यं, परोपकारः, दया, करुणा इत्यादयः सद्गुणाः एव आकाशस्य आधारः । एते गुणाः यावत् लोके तिष्ठेयुः तावत् आकाशस्य पतनं न संभविष्यति' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A boy once expressed his wonder to a saint: “The sky has no support. If an unsupported sky were to fall on me, what would happen?” Smiling gently, the saint advised him to beg for food to ease his hunger. The boy tried but received nothing, until a kind mother outside the village lovingly gave him a meal. When he told the saint what had happened, the monk explained: “The love, compassion, kindness, and selfless care shown by that mother are the true supports of the sky. As long as such virtues exist in the world, the sky will never fall”.

    続きを読む 一部表示
    4 分
  • निर्व्यामोहप्राप्त्यै मार्गः
    2026/02/26

    कदाचित् कश्चन राजा कस्मैचित् संन्यासिने सुवर्णमयं भिक्षापात्रम् अयच्छत् । संन्यासी तेन भिक्षापात्रेण भिक्षायाचनं करोति स्म । कश्चन चोरः तत् पात्रं चोरयितुं तं संन्यासिनं रहसि अनुसृतवान् । एतत् ज्ञातवान् संन्यासी भिक्षापात्रं बहिः अक्षिपत् । तत् दृष्ट्वा निर्व्यामोहम् अमूल्यं भिक्षापात्रं बहिः क्षिप्तवान् अयं महात्मा इति विचिन्त्य अन्तः गत्वा महात्मानं नमस्कृत्य 'कथम् अमूल्यं वस्तु बहिः क्षिप्तं भवता ?’ इति अपृछत् चोरः । संन्यासी तस्मै उपदेशम् अकरोत् । गच्छता कालेन चोरेण चौर्यं कर्तुमपि न शक्तम् । अल्पे एव काले सुवर्णधनादयः शिलामृत्तिकादयः इव अभासन्त । अन्ते सः संन्यासिनः शिष्यः भूत्वा आत्मशुद्धिं प्राप्य उत्तमजीवनम् अयापयत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A king once gifted a saint a golden begging bowl. The saint used it for alms, but a thief secretly followed him, hoping to steal it. Realizing this, the saint threw the bowl away. Amazed at such detachment, the thief approached and asked, “How could you discard such a precious thing?” The saint gave him a teaching. Over time, the thief lost his desire to steal, seeing gold and wealth as mere dust and stones. Eventually, he became the saint’s disciple, attained inner purity, and lived a noble life.

    続きを読む 一部表示
    3 分