धनस्य कारणतः
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
गोवल्लभनामकः कश्चन महाधनिकः भोगजीवनं यापयन् वार्धक्ये रोगग्रस्तः जातः । कदाचित् चिन्तामग्नेन तेन किञ्चित् मधुरं गीतं श्रुतम् । तेन आनन्दः प्राप्तः गोवल्लभः तं चर्मकारम् आनाय्य किञ्चित् धनं दत्त्वा श्वः अपि आगत्य एवम् एव एकं गीतं श्रावय इति अवदत् । किन्तु अनन्तरदिने सः चर्मकारः आगत्य धनं प्रत्यर्प्य 'धनस्य रक्षणविषये चिन्तां प्राप्तवता मया भगवतः स्मरणं कर्तुं न शक्तम् । धने सति आनन्दप्राप्तिः क्लेशाय' इति अवदत् । एतस्य श्रवणात् धनिकेन गोवल्लभेन विवेकः प्राप्तः । ततः सः स्वसम्पत्तिं निर्धनेभ्यः वितीर्य भगवतः स्मरणे उद्यतः अभवत् । तस्मात् तस्य अस्वास्थ्यम् अपि अपगतम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wealthy man named Govallabha, who had spent his life indulging in pleasures, became afflicted with illness in old age. One day, while immersed in worry, he happened to hear a sweet song. Feeling joy from it, Govallabha called the cobbler who sang it, gave him some money, and requested him to return the next day and sing a similar song. However, the next day, the cobbler came back and returned the money, saying, “With the worry of safeguarding the money, I was unable to remember God. Possessing wealth brings joy, but also suffering.” Hearing this, Govallabha gained wisdom. He then distributed his wealth among the poor and devoted himself to the remembrance of God. As a result, even his illness disappeared.