वासुदेवस्य भक्तिः
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
एषा कथा पञ्चदशे अथवा षोडशे शतके घटिता, यत्र श्रीकृष्णचैतन्यनामकः कश्चन मेधावी न्यायशास्त्रविद् भागवतभक्तः वैष्णवाचार्यः अभवत् । सः चैतन्यमहाप्रभुः इत्यपि प्रसिद्धः । तस्मिन्काले वासुदेवनामकः कश्चन कृष्णभक्तः कुष्ठरोगेण पीडितः आसीत् । एकदा चैतन्यमहाप्रभुः दक्षिणभारतयात्रां कुर्वन् कूर्मनामकस्य ब्राह्मणस्य गृहे वासं कृतवान् । श्रुतवार्तः वासुदेवः परिश्रमेण तत्र आगतः, किन्तु महाप्रभुः तावता ततः निर्गतः आसीत् । वासुदेवः खिन्नः भूत्वा मूर्च्छितः अभवत् । सर्वज्ञः महाप्रभुः वासुदेवस्य भावं ज्ञात्वा शीघ्रं प्रत्यागत्य तम् आलिङ्गितवान् । तस्य स्पर्शेन वासुदेवस्य व्याधिः अपगतः, सः नूतनं निर्मलं देहं प्राप्तवान् च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story took place in the 15th or 16th century, during the time of Shri Krishna Chaitanya, a brilliant scholar of Nyaya (logic), a devotee of the Bhagavata, and a revered Vaishnava acharya. He was also widely known as Chaitanya Mahaprabhu. At that time, there was a devotee named Vasudeva who suffered from leprosy. Once, while Chaitanya Mahaprabhu was traveling through South India, he stayed at the home of a Brahmin named Kurma. Hearing of his arrival, Vasudeva made a strenuous effort to reach him, but by the time he arrived, Mahaprabhu had already departed. Heartbroken, Vasudeva fainted from grief. Being omniscient, Mahaprabhu sensed Vasudeva’s deep devotion and quickly returned to embrace him. By the divine touch of Mahaprabhu, Vasudeva was cured of his disease and received a renewed, pure body. This tale beautifully illustrates the transformative power of devotion and divine grace.