
समयप्रज्ञा
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
कश्चन बुद्धिमान् युवकः दुर्गादासः कदाचित् रात्रौ 'चोरः चोरः' इति चीत्कारं कृतवान् । तदा ग्रामीणाः सर्वविधानि आयुधानि स्वीकृत्य चोरं ग्रहीतुम् आगतवन्तः । किन्तु न्यग्रोधवृक्षस्य पुरतः महान् व्याघ्रः तैः दृष्टः । अनुक्षणमेव सर्वे मिलित्वा लवित्रैः दण्डैश्च तं मारितवन्तः । अनन्तरं जनाः 'किमर्थं चोरः इति उक्तवान् भवान्' इति यदा अपृच्छन् तदा मन्दहासपूर्वकं अवदत् दुर्गादासः 'चोरः इति मत्वा भवन्तः सर्वे गृहात् बहिः आगतवन्तः । यदि अहं व्याघ्रः इति आक्रोशम् अकरिष्यं तर्हि भवन्तः सर्वे आगमिष्यन् ? अतः एव अहं चोरः चोरः इति आक्रुष्टवान्' इति । सर्वे दुर्गादासस्य समयप्रज्ञां श्लाघितवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One night, a clever young man named Durgadas shouted, "Thief! Thief!" Hearing this, the villagers rushed out with weapons to catch the thief. However, instead of a thief, they found a fierce tiger near a banyan tree. Immediately, they united and killed the tiger with axes and sticks. Later, they asked Durgadas why he had shouted "Thief!" instead of "Tiger!" Smiling, he replied, "Had I shouted 'Tiger,' would you all have come out? But by saying 'Thief,' I ensured everyone rushed out". The villagers praised his wisdom and presence of mind.