धनं तु तव पार्श्वे अस्ति
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
कदाचित् मोहननामकः कश्चित् यदा धनार्जनं कृत्वा स्वग्रामं प्रति आगच्छन् आसीत् तदा कश्चन वञ्चकः तम् अनुसृतवान् । रात्रौ कस्यांचन धर्मशालायांं भोजनं कृत्वा शयनम् अकुरुताम् । मध्यरात्रे वञ्चकः मोहनस्य पोटलीवस्त्रम् उद्घाट्य ज्ञातवान् यत् तत्र धनं नास्ति इति । एवमेव अग्रिमदिने अन्यस्यां धर्मशालायाम् अपि वञ्चकेन मोहनस्य धनं न प्राप्तम् । एतस्य समीपे धनमेव नास्ति इति मत्वा यदा वञ्चकः अन्यस्मिन् मार्गे गमनाय उद्युक्तः तदा मोहनः तं स्वगृहं भोजनार्थम् आहूतवान् । सम्भाषणावसरे मोहनः अवदत् 'धनं तु तव पार्श्वे एव असीत् । रात्रौ भवतः कटस्य अधः पोटलीवस्त्रं स्थापयामि स्म । तव समीपे पुरुषार्थरूपि धनम् अस्ति एव' इति उक्त्वा तस्मै सहस्ररूप्यकाणि दत्त्वा 'तेन कमपि व्यवसायं कुरु' इति अवदत् । वञ्चकः मोहनस्य चरणयोः अपतत्, क्षमां च अयाचत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a man named Mohan, after earning some money, was returning to his village. A trickster followed him. At night, both stayed in a rest-house, ate, and slept. At midnight, the trickster opened Mohan’s bundle but found no money. The next day, in another rest-house, he again searched but found nothing. Thinking Mohan had no wealth, the trickster prepared to leave by another road. Mohan then invited him home for a meal. During their conversation, Mohan said: “The real wealth was always with you. At night I placed my bundle under your waistcloth. True wealth lies in human effort”. Saying this, Mohan gave him a thousand rupees and advised: “Use this to start some honest work”. The trickster fell at Mohan’s feet, begged forgiveness, and was transformed.