श्रीरामस्य महिमा
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
श्रीरामः वनवासगमनात् पूर्वम् अयोध्यावासिभ्यः भूरिदानं कर्तुम् ऐच्छत् । दानविषये श्रुतवती त्रिजटनामकस्य निर्धनब्राह्मणस्य पत्नी श्रीरामं दानं याचतु इति पतये सानुरोधम् उक्तवती । झटिति त्रिजटः गत्वा यदा दानम् अयाचत तदा श्रीरामः विहस्य तस्मै एकं दण्डं दत्त्वा 'दण्डं बलात् क्षिपतु । यत्र पतिष्यति तावतपर्यन्तायां भूम्यां स्थिताः गावः भवदीयाः भविष्यन्ति' इति । कृशशरीरः दुर्बलः च त्रिजटः अचिन्तयत् यत् दण्डः किञ्चिद्दूरे एव पतिष्यति इति । किन्तु यदा अक्षिपत् तदा सरयूनद्याः द्वितीयतटे न्यपतत् यत्र बह्व्यः गावः चरन्ति स्म । त्रिजटः अचिन्तयत् यत् एतावद्दूरं दण्डक्षेपणाय श्रीरामस्य महिमा एव कारणम् इति चिन्तयन् सानन्दं श्रीरामं नमस्कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Before leaving for exile, Shri Rama wished to give generous gifts to the people of Ayodhya. Hearing of this, the wife of a poor Brahmin named Trijata urged her husband to ask Rama for a donation. When Trijata approached, Rama smilingly gave him a stick and said, “Throw it with all your strength. Wherever it lands, the cows grazing on that land shall be yours”. Weak and frail, Trijata thought the stick would fall nearby. But when he threw it, it landed across the Sarayu River, where many cows were grazing. Amazed, Trijata realized that such a miracle was due to Rama’s divine power. Filled with joy, he bowed gratefully to Shri Rama.