『आहारसेवनक्रमः पशूनाम् इव स्यात्』のカバーアート

आहारसेवनक्रमः पशूनाम् इव स्यात्

आहारसेवनक्रमः पशूनाम् इव स्यात्

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

कश्चन महात्मा आश्रमम् आगतान् भक्तान् स्वागतीकृत्य भोजनाय निमन्त्रितवान् । भोजनसमये सः महात्मा अवदत् 'मानवस्य आहारसेवनक्रमः पशूनामिव स्यात् । पशवः केवलं बुभुक्षायां सत्याम् एव खादन्ति । भगवता विहितम् आहारम् एव सेवन्ते । मानवः तु बुभुक्षायाम् अजातायाम् अपि खादति, विवाहादौ मितम् अतिक्रम्य भोजनं करोति, स्वस्य आरोग्यं नाशयति । स्वास्थ्यरक्षणं मानवाधीनम् अस्ति, किन्तु तत्र आदरः न दृश्यते । व्यायामेन च स्वास्थ्यदोषाणां निवारणं शक्यं, तथापि मानवः तदपि न करोति । अन्नं ब्रह्म, पूज्यं च । एकः अपि अन्नकणः न व्यर्थीकरणीयः । सद्विचारपूर्वकं सेवनम् एव सत्फलं ददाति' इति । भक्ताः एतान् विचारान् स्मरन्तः तृप्त्या भोजनं कृत्वा निर्गताः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a revered sage welcomed devotees to his ashram and invited them for a meal. During the meal, he shared a profound reflection: “A human’s eating habits often resemble those of animals. Animals eat only when hungry and consume what nature has assigned to them. But humans eat even without hunger, and during occasions like weddings, they overindulge, harming their own health.” He emphasized that maintaining health is within human control, yet people neglect it. Though exercise can prevent health issues, many avoid it. He reminded everyone that food is sacred—Annam Brahma—and must be respected. Not even a single grain should be wasted. Only food consumed with thoughtful awareness yields true benefit. The devotees, deeply moved by these insights, ate mindfully and departed with a sense of fulfillment.

まだレビューはありません