आर्तिनाशनं मुख्यम्
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
जपान्देशे यदा भगवतः बुद्धस्य महान् प्रभावः आसीत् तदा प्रवृत्ता घटना एषा । सर्वत्र शान्तिः प्रवृत्ता आसीत् इति कारणतः युद्धं क्वापि न प्रवर्तते स्म । अतः बहवः भटाः वृत्तिहीनाः जाताः । कश्चन भटः वृत्त्यभावात् नितरां परितपति स्म । तस्य गृहे एकवारमपि भोजनं प्राप्तुम् असमर्थं जातम् । सः बुद्धमन्दिरं गत्वा तत्र स्थितौ भिक्षू नमस्कृत्य स्वस्य दैन्यस्थितिं विवृत्य 'कापि वृत्तिः परिकल्प्यताम्' इति प्रार्थितवान् । तस्य दैन्यस्थितिं द्रष्टुम् अशक्नुवन् तयोः एकः भिक्षुः बुद्धमूर्तेः प्रभावलीम् अपनीय भटाय दत्त्वा 'एतत् विक्रीय प्राप्तेन धनेन स्वस्य कष्टं परिहर' इति अवदत् । तेन कुपितम् अन्यं भिक्षुम् उद्दिश्य अवदत् 'मूर्तेः अलकरणस्य रक्षणात् अपि आर्तिनाशनम् एव परमं प्रमुखम्' ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story took place in Japan when the influence of Lord Buddha was very strong. Because peace prevailed everywhere, wars did not occur, and many soldiers became unemployed. One such soldier suffered greatly due to the lack of livelihood, and his family could not even get food once a day. In despair, he went to a Buddhist temple, bowed to the monks there, and explained his miserable condition, requesting them to find some means of livelihood for him. Seeing his suffering, one of the monks removed a precious ornament from the statue of Buddha and gave it to the soldier, saying, “Sell this and use the money to overcome your hardship.” Also addressed his companion, “More important than protecting the ornament of the statue is relieving the suffering of a distressed person”.