『जीवने हानिः लाभः च』のカバーアート

जीवने हानिः लाभः च

जीवने हानिः लाभः च

無料で聴く

ポッドキャストの詳細を見る

概要

कश्चन युवकः वणिक् वाणिज्ये महतीं हानिं प्राप्य गुरोः समीपे आगत्य बहुधा विलपितवान् । गुरुः 'भवतः जीवने किं नष्टं, किं च प्राप्तम् इति किञ्चित् परिशील्यताम्' इत्युक्त्वा एकं कागदम् अयच्छत् । यत् नष्टं तत् कागदस्य वामभागे, यत् प्राप्तं तत् दक्षिणभागे च लेखनीयम् इत्यवदत् गुरुः । दक्षिणभागस्था आवली सुदीर्घा जाता । एतस्य दर्शनात् युवकस्य उत्साहः प्रवृद्धः । सः अवदत् 'धनेन क्रेतुम् अयोग्याः बहवः अंशाः मयि सन्ति । आरोग्यम्, उत्साहः, आत्मीयतावर्षकाः, पत्नीपुत्रादयः, प्रोत्साहकाः सुहृदः, अमूल्यः अनुभवः च । इतःपरं पुनरपि प्रयत्नं कृत्वा नूतनं वाणिज्यम् आरभ्य सफलतां प्राप्स्यामि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A young merchant, having suffered great loss in business, went to his teacher and lamented bitterly. The teacher gave him a sheet of paper and said: “Write on the left side what you have lost, and on the right side what you still possess”. When the merchant did so, the list on the right side became very long. Seeing this, his enthusiasm grew. He said: “I have many things that money cannot buy—health, energy, loving family, supportive friends, and priceless experience. With these, I will make fresh efforts and start a new business to achieve success”.

まだレビューはありません