रोदनस्य कारणम्
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
गुरोः विरजानन्दस्य उटजस्य स्वच्छता दयानन्दस्य दायित्वम् आसीत् । एकदा यदा दयानन्दः उटजं सम्मार्जयन् अवकरान् द्वारसमीपे राशीकृतवान् आसीत् तदा कश्चित् तम् आहूतवान् इति कारणतः अवकरान् अक्षिप्त्वा एव ततः निर्गतवान् । तावता तत्र आगतवतः क्षीणदृष्टिशक्तेः विरजानन्दस्य अवकरस्पर्शतः महान् कोपः जातः । सः दयानन्दम् आनाय्य दण्डेन निरन्तरं ताडितवान् । यदा दयानन्दः उच्चैः रोदनं कृतवान् तदा त्यक्तकोपः सन् गुरुः 'वत्स! महती वेदना जाता किम्?’ इति पृष्टे दयानन्दः अवदत् 'गुरो ! दण्डप्रहारजनितवेदनाकारणतः अहं न रोदिमि । प्रहारसमये कुसुमकोमलः भवतः हस्तः कियतीं वेदनाम् अनुभूतवान् स्यात् इति स्मरतः मम नेत्राभ्याम् अश्रूणि निर्गतानि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The cleaning of Guru Virjananda’s hut was the responsibility of Dayananda. One day, while Dayananda was sweeping, he gathered the refuse near the doorway. Just then, someone called him, so he left without throwing it away. Soon after, Guru Virjananda, whose eyesight was weak, came and accidentally touched the refuse. Greatly angered, he called Dayananda and beat him repeatedly with a stick. When Dayananda cried aloud, the Guru, calming down, asked: “My child, did you suffer great pain?” Dayananda replied: “O Guru! I did not cry because of the pain from your blows. I wept because I thought of how much pain your tender, flower-like hand must have felt while striking me”.