『पितृभक्तिः』のカバーアート

पितृभक्तिः

पितृभक्तिः

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

१८५७ तमे वर्षे कोलकाताविश्वविद्यालयतः बि.ए परीक्षायाम् अधिकान् अङ्कान् प्राप्तवन्तं बङ्किमचन्द्रवर्यं तदानीन्तनः राज्यपालः हालेण्ड्-वर्यः स्वगृहम् आहूतवान् । ततः 'भवान् अद्य आरभ्य उपदण्डाधिकारिरूपेण कार्यारम्भं करोतु' इति बङ्किमचन्द्रम् उक्तवान् । परन्तु बङ्किमचन्द्रः राज्यपालाय धन्यवादान् समर्प्य अवद्त् 'उद्योगस्वीकारविषये मया मम पिता प्रष्टव्यः । तस्य विचारानुसारम् एव निर्णयं करिष्यामि' इति । पुत्रस्य मुखात् एव प्रवृत्तं समग्रं श्रुत्वा नितरां सन्तुष्टः पिता, उपदण्डाधिकारिपदस्य स्वीकाराय पुत्राय अनुमतिं दत्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In 1857, Bankim Chandra, having secured high marks in the B.A. examination from Calcutta University, was invited by the then Governor, Halliday, to his residence. The Governor said to him: “From today, you shall begin work as a Deputy Magistrate”. Bankim Chandra, offering thanks, replied: “Before accepting any appointment, I must consult my father. I will decide according to his advice”. Hearing such words directly from his son, the father was deeply pleased and gave his consent for Bankim Chandra to accept the post of Deputy Magistrate.

まだレビューはありません